वांछित मन्त्र चुनें

ऋध॑गि॒त्था स मर्त्य॑: शश॒मे दे॒वता॑तये । यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥

अंग्रेज़ी लिप्यंतरण

ṛdhag itthā sa martyaḥ śaśame devatātaye | yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye ||

पद पाठ

ऋध॑क् । इ॒त्था । सः । मर्त्यः॑ । श॒श॒मे । दे॒वऽता॑तये । यः । नू॒नम् । मि॒त्रावरु॑णौ । अ॒भिष्ट॑ये । आ॒ऽच॒क्रे । ह॒व्यऽदा॑तये ॥ ८.१०१.१

ऋग्वेद » मण्डल:8» सूक्त:101» मन्त्र:1 | अष्टक:6» अध्याय:7» वर्ग:6» मन्त्र:1 | मण्डल:8» अनुवाक:10» मन्त्र:1